सामग्री पर जाएं Skip to footer
सूर्ययन्त्रम्

रसेन्दुनागा नगवाणरामा, युग्माङ्कवेदा नवकोष्ठमध्ये । विलिख्य धार्यं गदनाशनाय, वदन्ति गर्गादिमहामुनीन्द्राः ॥

618
753
294
चन्द्रयन्त्रम्

नागद्विनन्दा गजषट् समुद्रा शिवाक्षिदिग्वाणविलिख्य कोष्ठे । चन्द्रकृतारिष्टविनाशनाय धार्यं मनुष्यैः शशियन्त्रमीरितम् ॥

729
664
3105
मंगलयन्त्रम्

गजाग्निदिश्याथनवाद्रिवाणा पातालरुद्रारससंविलिख्य । भौमस्य यन्त्रं क्रमशो विधार्य मनिष्टनाशं प्रवदन्ति गर्गाः ॥

8310
175
4116
बुधयन्त्रम्

नवाब्धिरुद्रा दिङ्नागषष्ठा वाणार्कसप्ता नवकोष्ठयन्त्रे । विलिख्य धार्यं गदनाशहेतवे वदन्ति यन्त्रं शशिजस्य धीराः ॥

9511
1086
5127
बृहस्पतियन्त्रम्

दिग्वाणसूर्या शिवनन्दसप्ता षड्विश्वनागाक्रमतोऽङ्ककोष्ठे । विलिख्य धार्यं गुरुयन्त्रमीरितं रुजाविनाशाय वदन्ति तद्बुधाः ॥

10512
1197
6138
शुक्रयन्त्रम्

रुद्राङ्गविश्वा रविदिग्गजाख्या नगामनुश्चाङ्कक्रमाद्विलेख्याः । भृगोः कृतारिष्टविनाशनाय धार्यं हि यन्त्रं मुनिना प्रकीर्तितम् ॥

11613
12108
7149
शनियन्त्रम्

अर्काद्रिमन्वा स्मर रुद्र अङ्का नागाख्यतिथ्यादश मंदयन्त्रम् । विलिख्य भूर्जोपरिधार्यमेत च्छने: कृतारिष्टनिवारणाय ॥

12714
13119
81510
राहुयन्त्रम्

विश्वाष्टतिथ्यामनुसूर्यदिश्या खगामहीन्द्रैकदशांशकोष्ठे । विलिख्य यन्त्रं सततं विधार्यं राहोः कृतारिष्टनिवारणाय ॥

13814
13814
91611
केतुयन्त्रम्

मनुखेचरभूपतिथिविश्व शिवादिक् सप्तादशसूर्यमिता । क्रमशो विलिखेन्नवकोष्ठमिते परिधार्य नरा दुःखनाशकराः ॥

14916
151311
101712
hi_INHI